सुभाषितानि सुभाषितानि- सु (सुन्दराणि, मधुराणि, हितकराणि) ़ भाषितानि (वचनानि)। श्लोकरूपेण एतानि सुन्दराणि वचनानि सूक्तिमंजरी-नीतिशतक-मनुस्मृति-शिशुपालवध- पंचतन्त्र- आदिग्रन्थेभ्यः संगृहीतानि। एतानि सुन्दराणि मधुराणि च सुभाषितानि अस्माकं व्यक्तित्व-विकासाय प्रोत्साहनाय च अमृतवचनानि सन्ति। श्लोकः (1)- गुणा गुणज्ञेषु गुणा भवन्ति, ते निर्गुणं प्राप्य भवन्ति दोषाः। सुस्वादुतोयाः प्रभवन्ति नद्यः, समुद्रमासाद्य भवन्त्यापेयाः।। पदच्छेदः- गुणाः, गुणज्ञेषु, गुणाः, भवन्ति, ते, निर्गुणम्, प्राप्य, भवन्ति, दोषाः, सुस्वादु-तोयाः, प्रभवन्ति, नद्यः, समुद्रम्, आसाद्य, भवन्ति, अपेयाः।। अन्वयः- गुणाः गुणज्ञेषु गुणाः भवन्ति, ते (गुणाः) निर्गुणं प्राप्य दोषाः भवन्ति। सुस्वादुतोयाः नद्यः प्रभवन्ति, (परन्तु नद्यः) समुद्रम् आसाद्य अपेयाः भवन्ति ।। भावार्थः (संस्कृते)- गुणाः गुणीजनेषु सद्गुणाः भवन्ति, परन्तु ते एव गुणाः निर्गुणं जनं प्राप्य दोषाः भवन्ति। यथा नदीनां जलं यावत् पर्यन्तं नदीषु भवति तावत् पर्यन्तं तद् जलं मधुरं पातुं च योग्यं भवति, परन्तु तदेव जलं यदा समुद्रे पतति तर्हि तद् जलं पातु योग्यं न भव...