सीधे मुख्य सामग्री पर जाएं

सुभाषितानि-class-8- subhashitani- sanskrit-shlok-गुणा गुणज्ञेषु-guna-gunagyeshu-RUCHIRA-CHAPTER-1-साहित्यसङ्गीतकलाविहीनः-SAHITY-SANGEET-लुबधस्य नश्यति यशः-LUBDHASY NASHYATI-पीत्वा रसं तु कटुकं-PEETWA-RASM-

 सुभाषितानि

सुभाषितानि- सु (सुन्दराणि, मधुराणि, हितकराणि) ़ भाषितानि (वचनानि)।


श्लोकरूपेण एतानि सुन्दराणि वचनानि सूक्तिमंजरी-नीतिशतक-मनुस्मृति-शिशुपालवध- पंचतन्त्र- आदिग्रन्थेभ्यः संगृहीतानि। एतानि सुन्दराणि मधुराणि च सुभाषितानि अस्माकं व्यक्तित्व-विकासाय प्रोत्साहनाय च अमृतवचनानि सन्ति।


श्लोकः (1)-

गुणा गुणज्ञेषु गुणा भवन्ति, ते निर्गुणं प्राप्य भवन्ति दोषाः।

सुस्वादुतोयाः प्रभवन्ति नद्यः, समुद्रमासाद्य भवन्त्यापेयाः।।


पदच्छेदः-

गुणाः, गुणज्ञेषु, गुणाः, भवन्ति, ते, निर्गुणम्, प्राप्य, भवन्ति, दोषाः, सुस्वादु-तोयाः, प्रभवन्ति, नद्यः, समुद्रम्, आसाद्य, भवन्ति, अपेयाः।।


अन्वयः-

गुणाः गुणज्ञेषु गुणाः भवन्ति, ते (गुणाः) निर्गुणं प्राप्य दोषाः भवन्ति। सुस्वादुतोयाः नद्यः प्रभवन्ति, (परन्तु नद्यः) समुद्रम् आसाद्य अपेयाः भवन्ति ।।


भावार्थः (संस्कृते)-

गुणाः गुणीजनेषु सद्गुणाः भवन्ति, परन्तु ते एव गुणाः निर्गुणं जनं प्राप्य दोषाः भवन्ति। यथा नदीनां जलं यावत् पर्यन्तं नदीषु भवति तावत् पर्यन्तं तद् जलं मधुरं पातुं च योग्यं भवति, परन्तु तदेव जलं यदा समुद्रे पतति तर्हि तद् जलं पातु योग्यं न भवति।


काठिन्यनिवारणम्-

शब्दाः अर्थाः(संस्कृते) अर्थाः(हिन्द्याम्)

गुणाः धर्मः/स्वभावः/वैशिष्ट्यम्

गुणज्ञेषु गुणयुक्तः-जनेषु गुणियों में

भवन्ति सन्ति

ते ते(गुणाः)

निर्गुणम् गुणहीनं (जनं) गुणहीन को

प्राप्य लब्ध्वा/मिलित्वा

दोषाः दुर्गुणाः/अनिष्ट-फलम्

सुस्वादुतोयाः स्वादिष्ट-जल-युक्ताः

नद्यः सरितः

प्रभवन्ति बहन्ति

समुद्रम् जलधिम्

आसाद्य प्राप्य

अपेयाः पातुम् अयोग्याः


भावार्थः (हिन्द्याम्)-

विद्वान् और गुणी व्यक्तियों के पास जाकर गुण, सद्गुण के रूप में परिवर्तित हो जाते हैं, परन्तु वे ही गुण, गुणहीन व्यक्तियों के संसर्ग में दोषों के रूप में परिणत हो जाते हैं। जैसे- नदियों में मधुर स्वाद वाला पीने योग्य जल प्रवाहित होता है, परन्तु वही जल समुद्र के जल में मिल जाता है तो खारा हो जाता है तथा पीने योग्य नहीं रहता है।


भाव-बोधम्-

1. गुणाः केषु सद्गुणाः भवन्ति? (गुणज्ञेषु)

2. गुणज्ञेषु सद्गुणाः के भवन्ति? (गुणाः)

3. गुणाः गुणज्ञेषु केन रूपेण भवन्ति? (सद्गुण-रूपेण)

4. गुणाः कं प्राप्य दोषाः भवन्ति? (निर्गुणं)

5. श्लोके ‘ते‘ इति पदं केभ्यः प्रयुक्तम्? (गुणेभ्यः)

6. काः प्रभवन्ति? (नद्यः)

7. नद्यः कीदृश्यः प्रभवन्ति? (सुस्वादुतोयाः)

8. काः अपेयाः भवन्ति? (सुस्वादु-तोयाः नद्यः)

9. नद्यः कदा अपेयाः भवन्ति? (समुद्रम् आसाद्य)

10. ‘आसाद्य‘ इति पदेन कः अभिप्रायः? (प्राप्य)


श्लोकः(2)-

साहित्यसङ्गीतकलाविहीनः, साक्षात्पशुः पुच्छविषाणहीनः।

तृणं न खादन्नपि जीवमानः, तद्भागधेयं परमं पशूनाम्।।


पदच्छेदः-

साहित्य-सङ्गीत-कला-विहीनः, साक्षात्-पशुः, पुच्छ-विषाण-हीनः,

तृणम्, न, खादन्, अपि, जीवमानः, तत्, भागधेयम्, परमम्, पशूनाम्।।


अन्वयः-

(यः मनुष्यः) साहित्य-सङ्गीत-कला-विहीनः (अस्ति, सः) पुच्छ-विषाण-हीनः साक्षात्-पशुः (इव अस्ति)। तृणम् न खादन् अपि (सः) जीवमानः (अस्ति) तत् पशूनाम् परमं भागधेयम् अस्ति।


भावार्थः (संस्कृते)-

यः मानवः काव्यम्, सङ्गीतम्, शिल्पम्, अभिनयं वा न जानाति, सः मानवः पुच्छं विषाणं च विना अपि वस्तुतः पशुः एव अस्ति। इदं पशूनां परमं सौभाग्यम् अस्ति यत् सः पशुः इव घासं न खादित्वा अपि जीवति। अनेन पशूनां भोजनं रक्षितं भवति।


काठिन्यनिवारणम्-

शब्दाः अर्थाः(संस्कृते) अर्थाः(हिन्द्याम्)

साहित्यम् काव्यम्, नाटकम्, गीतम्

सङ्गीतम् संगीतविद्या

कला शिल्पम्, नृत्यम्, चित्रम्, अभिनयः

विहीनः रहितः

पुच्छः लांगूलम्

विषाणम् शृंगम्

हीनः रहितः

साक्षात् प्रत्यक्षम्/वस्तुतः

पशुः जन्तुविशेषः

तृणम् घासः

नहि

खादन् भक्षयन्

अपि भी

जीवमानः जीवितः अस्ति

तत् तृणं अखादन् अपि जावनम्

पशूनाम् जन्तूनाम्

परमम् अत्यधिकम्

भागधेयम् सौभाग्यम्


भावार्थः (हिन्द्याम्)-

जो मनुष्य काव्य, संगीत, शिल्प, अभिनय आदि कलाओं को नहीं जानता, वह मनुष्य पूंछ और सींगों से रहित होने पर भी साक्षात् पशु ही है। यह पशुओं का बहुत बड़ा सौभाग्य है कि वह घास न खाकर भी जीवित है। इससे पशुओं के भोजन की रक्षा हो गई है।


भाव-बोधनम्-

1. पशुः इव कः भवति?

(साहित्य-सङ्गीत-कला-विहीनः जनः)

2. साहित्य-सङ्गीत-कला-विहीनः जनः कीदृशः पशुः भवति?

(पुच्छ-विषाण-हीनः)

3. पशुः इव जनः तृणं न खादन् अपि कथं भवति?

(जीवमानः)

4. परमं भागधेयं केषाम् अस्ति?

(पशूनाम्)

5. किमर्थं पशूनां भागधेयम् अस्ति?

(साहित्य-सङ्गीत-कला-विहीनः सः पशुः तृणं न खादति, अतः पशूनां परमं भागधेयम् अस्ति, येन पशूनां भोजनं रक्षितं भवति।)


श्लोकः(3)-

लुबधस्य नश्यति यशः पिशुनस्य मैत्री

नष्टक्रियस्य कुलमर्थपरस्य धर्मः।

विद्याफलं व्यसनिनः कृपणस्य सौख्यं

राज्यं प्रमत्तसचिवस्य नराधिपस्य।।


पदच्छेदः-

लुबधस्य, नश्यति, यशः, पिशुनस्य, मैत्री, नष्ट-क्रियस्य, कुलम्, अर्थपरस्य, धर्मः, विद्या-फलम्, व्यसनिनः, कृपणस्य, सौख्यम्, राज्यम्, प्रमत्त-सचिवस्य, नर-अधिपस्य।।


अन्वयः-

लुबधस्य यशः (नश्यति) पिशुनस्य मैत्री (नश्यति) नष्टक्रियस्य कुलं (नश्यति) अर्थपरस्य धर्मः (नश्यति)। व्यसनिनः विद्याफलं (नश्यति) कृपणस्य सौख्यं (नश्यति) प्रमत्तसचिवस्य नराधिपस्य राज्यं नश्यति।


भावार्थः (संस्कृते)-

लोभयुक्तस्य मानवस्य कीर्तिः नश्यति। रहस्यभेदिनः मित्रस्य मित्रता नश्यति। तथैव यः अकृत्यं करोति तस्य कुलं नश्यति। यः केवले धनस्य विषये एव चिन्तयति तस्य धर्मः नश्यति। दुष्ट-अभ्यासयुक्तस्य मानवस्य विद्या नश्यति। कृपणस्य सुखं नश्यति। यस्य नृपस्य मन्त्रिणः (सचिवाः) विवेकहीनाः भवन्ति तस्य नृपस्य राज्यं नश्यति।


काठिन्यनिवारणम्-

शब्दाः अर्थाः(संस्कृते) अर्थाः(हिन्द्याम्)

लुब्धस्य लोभि-जनस्य

यशः कीर्तिः/प्रसिद्धिः

पिशुनस्य द्विजिह्वस्य/कर्णेजपस्य

मैत्री मित्रता

नष्टक्रियस्य कुकर्मिणः/दुराचारिणः

कुलं वंशः

अर्थपरस्य धनलोलुपस्य

धर्मः कर्तव्यम्/स्वभावः

व्यसनिनः दुष्ट अभ्यासयुक्तस्य

विद्याफलं विद्यायाः परिणामः/ज्ञानम्

कृपणस्य क्षुद्रस्य

सौख्यम् सुखम्

प्रमत्तसचिवस्य विवेकहीन-सचिवेन-युक्तस्य

नराधिपस्य नृपस्य

राज्यं देशः

नश्यति नष्टं भवति


भावार्थः (हिन्द्याम्)-

लोभी का यश, चुगली करने वाले की मित्रता, कुकृत्य करने वाले का कुल, सर्वदा धन की लालसा रखने वाले का धर्म, बुरी आदतों वाले की विद्या, कंजूस का सुख तथा विवेकहीन मन्त्री वाले राजा का राज्य नष्ट हो जाता है।


भाव-बोधनम्-

1. कस्य यशः नश्यति? लुब्धस्य

2. कस्य मैत्री नश्यति? पिशुनस्य

3. कस्य  कुलं नश्यति? नष्टक्रियस्य

4. कस्य धर्मः नश्यति? अर्थपरस्य

5. कस्य विद्याफलं नश्यति? व्यसनिनः

6. कृपणस्य किं नश्यति? सौख्यं

7. कस्य राज्यं नश्यति? प्रमत्तसचिवस्य नराधिपस्य


श्लोकः(4)-

पीत्वा रसं तु कटुकं मधुरं समानं

माधुर्यमेव जनयेन्मधुमक्षिकासौ।

सन्तस्तथैव समसज्जनदुर्जनानां

श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।।


पदच्छेदः-

पीत्वा, रसम्, तु, कटुकम्, मधुरम्, समानम्, माधुर्यम्, एव, जनयेत्-मधुमक्षिका, असौ, सन्तः तथा, एव, सम-सज्जन-दुर्जनानाम्, श्रुत्वा, वचः, मधुर-सूक्त-रसम्, सृजन्ति।।


अन्वयः-

असौ मधुमक्षिका तु समानं मधुरं कटुकं रसं पीत्वा माधुर्यम् एव जनयेत्। तथा एव सन्तः समसज्जन-दुर्जनानां वचः श्रुत्वा मधुरसूक्तरसं सृजन्ति।।


भावार्थः (संस्कृते)-

यथा मधुमक्षिका कटुकं मधुरं च रसं पीत्वा माधुर्यम् (मधुः) एव निर्मान्ति तथैव सन्ताः सज्जनानां दुर्जनानां च वचनं श्रुत्वा मधुरवचनम् एव वदन्ति।


काठिन्यनिवारणम्-

शब्दाः अर्थाः(संस्कृते) अर्थाः(हिन्द्याम्)

असौ एषा

मधुमक्षिका मधुमक्षिका

तु निश्चयार्थबोधकम्

समानम् समानरुपेण

मधुरम् मधुररसम्

कटुकम् कटुरसम्

रसम् रसम्

पीत्वा पानं कृत्वा

माधुर्यम् माधुरताम्

एव हि

जनयेत् उत्पद्येत्

तथैव तेन एव प्रकारेण

सन्तः साधु-जनाः

समसज्जनदुर्जनानां सज्जनानां दुर्जनानां च समानम्

वचः वचनम्/कथनम्

श्रुत्वा श्रवणं कृत्वा/आकण्र्य

मधुरसूक्तरसम् सुभाषितरुपं मधुररसम्

सृजन्ति निर्मान्ति


भावार्थः (हिन्द्याम्)-

जिस प्रकार मधुमक्खी कड़वे व मीठे रस को पीकर मीठे (शहद) का ही उत्पादन करती है, उसी प्रकार संत जन सज्जनों व दुर्जनों की बातें सुनकर मीठी वाणी ही बोलते हैं।


भाव-बोधनम्-

1. मधुमक्षिका किं पिबति? रसं

2. मधुमक्षिका किदृशं रसं पिबति? कटुकं मधुरं च

3. कटुकं मधुरं रसं पीत्वा मधुमक्षिका किं जनयति? माधुर्यं

4. असौ इति पदं कस्य पदस्य विशेषणं अस्ति? मधुमक्षिका

5. वचः के शृण्वन्ति? सन्तः

6. सन्तः केषां वचः शृण्वन्ति? सज्जनानां दुर्जनानां च

7. सन्तः वचः श्रुत्वा किं कुर्वन्ति? मधुरसूक्तरसं सृजन्ति


श्लोकः(5)-

विहाय  पौरूषं  यो  हि  दैवमेवावलम्बते।

प्रासादसिंहवत् तस्य मूध्र्नि तिष्ठन्ति वायसाः।।


पदच्छेदः-

विहाय, पौरूषम्, यः, हि, दैवम्, एव, अवलम्बते,  प्रासादसिंहवत्, तस्य, मूध्र्नि, तिष्ठन्ति, वायसाः।


अन्वयः-

यः पौरूषं विहाय दैवम् एव अवलम्बते, प्रासादसिंहवत् तस्य मूध्र्नि वायसाः तिष्ठन्ति ।


भावार्थः (संस्कृते)-

यः मानवः पराक्रमं परित्यज्य केवलं भाग्यस्य आश्रयं स्वीकरोति समाजे तस्य तथैव अनादरः भवति यथा राज्यभवनस्य द्वारे स्थितस्य सिंहस्य प्रतिमायाः शिरसि काकाः यथेच्छम् आगत्य उपविशन्ति।


काठिन्यनिवारणम्-

शब्दाः अर्थाः(संस्कृते) अर्थाः(हिन्द्याम्)

विहाय त्यक्त्वा

पौरूषम् परिश्रमम्

यः यः जनः

हि निश्चयार्थबोधकम्

दैवम् भाग्यम्

एव निश्चयार्थबोधकम्

अवलम्बते आश्रयं स्वीकुर्वन्ति

प्रासादसिंहवत् राजभवनस्य द्वारसिंहः इव

तस्य जनस्य

मूध्र्नि शिरसि

वायसाः काकाः

तिष्ठन्ति उपविशन्ति


भावार्थः (हिन्द्याम्)-

जो मनुष्य पराक्रम छोड़कर केवल भाग्य के भरोसे रहता है। समाज में उसका अपमान उसी तरह होता है, जैसे राजभवन के द्वार पर स्थित सिंह की मूर्ति पर कौवें आकर बैठते हैं।


भाव-बोधनम्-

1. कः अवलम्ते? जनः

2. जनः कम् अवलम्बते? दैवम्

3. जनः किं विहाय दैवम् अवलम्बते? पौरुषम्

4. जनः पौरुषम् विहाय दैवम् अवलम्बते, तर्हि किं भवति? वायसाः तिष्ठन्ति

5. वायसाः कुत्र तिष्ठन्ति? मूध्र्नि

6. वायसाः कस्य मूध्र्नि तिष्ठन्ति? तस्य जनस्य

7. वायसाः कथमिव तस्य जनस्य मूध्र्नि तिष्ठन्ति? प्रासादसिंहवत्

8. कीदृशस्य जनस्य मूध्र्नि वायसाः प्रासादसिंहवत् तिष्ठन्ति? यः जनः पौरुषं विहाय सर्वदा भाग्यस्य आश्रयं स्वीकरोति।


श्लोकः(6)-

पुष्पपत्रफलच्छायामूलवल्कलदारुभिः।

धन्या महीरुहाः येषां विमुखं यान्ति नार्थिनः।।


पदच्छेदः-

पुष्प-पत्र-फल-च्छाया-मूल-वल्कल-दारुभिः, धन्याः, महीरुहाः, येषाम्, विमुखम्, यान्ति, न, अर्थिनः।।


अन्वयः-

पुष्प-पत्र-फल-च्छाया-मूल-वल्कल-दारुभिः (युक्ताः एते) महीरुहाः धन्याः (सन्ति) येषां (समीपं आगत्य) अर्थिनः विमुखं न यान्ति।


भावार्थः (संस्कृते)-

येषां समीपे पुष्पाणि, पत्राणि, फलानि, छाया, मूलं, वल्कलम् अर्थात् (वृक्षस्य त्वग्द्वारा निर्मीयमाणं वस्त्रम्) काष्ठानि च सन्ति। ते (वृक्षाः) स्वसमीपम् आगतेभ्यः याचकेभ्यः किमपि यच्छन्ति एव। कदापि कश्चन अपि याचकः तेभ्यः रिक्तहस्तः न गच्छति। अतः ते वृक्षाः धन्याः सन्ति।


काठिन्यनिवारणम्-

शब्दाः अर्थाः(संस्कृते) अर्थाः(हिन्द्याम्)

पुष्प-पत्र-फल-च्छाया-मूल पुष्पम्-पत्रम्-फलम्-छायाम्-मूलम्

वल्कल वृक्षस्य त्वग्द्वारा निर्मीयमाणं वस्त्रम्

दारुभिः काष्ठम्

महीरुहाः वृक्षाः

धन्याः प्रशंसनीयाः

येषां वृक्षाणां समीपम्

अर्थिनः याचकाः

विमुखं ािक्तम्

नहि

यान्ति गच्छन्ति


भावार्थः (हिन्द्याम्)-

जिनके पास पुष्प, पत्र, फल, छाया मूल, वल्कल और काष्ठ हैं, वे आए हुए याचको को कुछ न कुछ देते ही हैं। कोई याचक उन वृक्षों के पास आकर कभी भी खाली हाथ नहीं लौटता है। अतः वे वृक्ष धन्य हैं।


भाव-बोधनम्-

1. के धन्याः सन्ति? 

महीरुहाः

2. महीरुहाः कै धन्याः सन्ति? 

पुष्प-पत्र-फल-च्छाया-मूल-वल्कल-दारुभिः (युक्ताः एते) महीरुहाः

3. के न गच्छन्ति? 

अर्थिनः (याचकाः)

4. अर्थिनः कथं न गच्छन्ति? 

विमुखम् (रिक्तम्)

5. केषां समीपं आगत्य अर्थिनः विमुखं न गच्छन्ति? 

वृक्षाणां


श्लोकः(7)-

चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः।

न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे।।


पदच्छेदः-

चिन्तनीयाः, हि, विपदाम्, आदौ, एव, प्रतिक्रियाः न, कूपखननम्, युक्तम्, प्रदीप्ते, वह्निना, गृहे।


अन्वयः-

आदौ एव विपदां हि प्रतिक्रियाः चिन्तनीयाः (भवन्ति), वह्निना प्रदीप्ते गृहे कूपखननं युक्तं न (भवति)।


भावार्थः (संस्कृते)-

कस्मिन्नपि कार्ये समस्यानां सम्भावनाः भवन्ति एव अतः तासां समस्यानां निवारणाय उपायाः पूर्वमेव चिन्तनीयाः। यतोहि यदा गृहं ज्वलति, तदा कूपखननं उचितं न भवति।


काठिन्यनिवारणम्-

शब्दाः अर्थाः(संस्कृते) अर्थाः(हिन्द्याम्)

चिन्तनीयाः विचारणीयाः

हि निश्चयार्थबोधकः

विपदाम् विपत्तीनाम्

आदौ आरम्भे

एव निश्चयार्थबोधकः

प्रतिक्रियाः उपायाः

नहि

कूपखननम् कूपस्य निर्माणम्

युक्तम् उचितम्

प्रदीप्ते प्रज्जवलिते

वह्निना अग्निना

गृहे भवने


भावार्थः (हिन्द्याम्)-

मनुष्य को विपत्ति आने के पूर्व ही विचार कर उससे बचने के उपाय सोचने चाहिए। क्योंकि घर में आग लग जाने के बाद कुआँ खोदना उचित नहीं होता है।


भाव-बोधनम्-

1. काः चिन्तनीयाः? प्रतिक्रियाः (उपायाः)

2. कासां प्रतिक्रियाः चिन्तनीयाः? विपदां

3. विपदां प्रतिक्रियाः कदा चिन्तनीयाः? आदौ एव

4. किं युक्तं न भवति? कूपखननं

5. कदा कूपखननं युक्तं न भवति? प्रदीप्ते गृहे

6. केन प्रदीप्ते गृहे कूपखननं युक्तं न भवति? वह्निना


पुस्तकाभ्यासकार्यम्

1. पाठे दत्तानां पद्यानां (श्लोकानां) सस्वरवाचनं कुरुत-

2. श्लोकांशेषु रिक्तस्थानानि पूरयत-

क. समुद्रमासाद्य भवन्त्यापेयाः

ख. श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।

ग. तद्भागधेयं परमं पशूनाम्।

घ. विद्याफलं व्यसनिनः कृपणस्य सौख्यं


ड़. पौरूषं विहाय यः दैवम् अवलम्बते।

च. चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः।

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत-

क. व्यसनिनः किं नश्यति? विद्याफलम्

ख. कस्य यशः नश्यति? लुब्धस्य

ग. मधुमक्षिका किंजनयति? माधुर्यम्

घ. मधुरसूक्तरस के सृजन्ति? सन्तः

ड़. अर्थिनः केभ्यः विमुखा न यान्ति? महीरुहेभ्यः

4. अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-

कड़वा - कटुकम्

पूँछ - पुच्छम्

सन्त - सन्तः

लोभी - लुब्धः

मधुमक्खी - मधुमक्षिका

तिनका - तृणम्

5. अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि कत्र्ता क्रिया

क. निर्गुणं प्राप्य भवन्ति दोषाः। दोषाः भवन्ति

ख. गुणज्ञेषु गुणाः भवन्ति। गुणाः भवन्ति

ग. मधुमक्षिका माधुर्यं जनयेत्। मधुमक्षिका जनयेत्

घ. पिशुनस्य मैत्री यशः नाशयति। मैत्री नाशयति

ड़. नद्यः समुद्रमासाद्य अपेयाः भवन्ति। नद्यः भवन्ति

6. रेखांकितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

क. गुणाः गुणज्ञेषु गुणाः भवन्ति। के गुणज्ञेषु गुणाः भवन्ति?

ख. नद्यः सुस्वादुतोयाः भवन्ति। काः सुस्वादुतोयाः भवन्ति?

ग. लुब्धस्य यशः नश्यति। कस्य यशः नश्यति?

घ. मधुमक्षिका माधुर्यमेव जनयति। का माधुर्यमेव जनयति?

ड़. तस्य मूध्र्नि तिष्ठन्ति वायसाः। तस्य कुत्र तिष्ठन्ति वायसाः?

7. उदाहरणानुसारं पदानि पृथक्-कुरुत-

1-माधुर्यमेव- माधुर्यम एव

2-अल्पमेव- अल्पम् एव

3-सर्वमेव- सर्वम् एव

4-दैवमेव- दैवम् एव

5-महात्मनामुक्तिः- महात्मनाम् उक्तिः

6-विपदामादामेव- विपदामादौ एव


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

संज्ञा (Noun) — पूरी जानकारी सरल भाषा में (कक्षा 6, 7 और 8 के विद्यार्थियों के लिए • उदाहरण, चित्र और माइंड मैप सहित)

  संज्ञा (Noun) — पूरी जानकारी सरल भाषा में कक्षा 6, 7 और 8 के विद्यार्थियों के लिए • उदाहरण, चित्र और माइंड मैप सहित ज़रा सोचिए — जब आप बोलते हैं "राम स्कूल जाता है", तो इस वाक्य में राम और स्कूल — ये दोनों शब्द किसी न किसी नाम को बता रहे हैं। हिंदी व्याकरण में ऐसे ही शब्दों को संज्ञा कहा जाता है। आज हम इसे बहुत आसान तरीके से, ढेर सारे उदाहरणों के साथ समझेंगे। 1. संज्ञा किसे कहते हैं? किसी भी व्यक्ति, वस्तु, स्थान, भाव या गुण के नाम को "संज्ञा" कहते हैं। सरल शब्दों में — दुनिया की हर चीज़ का एक नाम होता है, और वह नाम ही संज्ञा है। संज्ञा = किसी भी नाम का बोध कराने वाला शब्द व्यक्ति (राम, सीता) वस्तु (किताब, कुर्सी) स्थान (दिल्ली, स्कूल) भाव / गुण (ख़ुशी, ईमानदारी) कुछ आसान उदाहरण वाक्यों में: मोहन बाज़ार से आम लाया। (व्यक्ति + वस्तु) दिल्ली भारत की राजधानी है। (स्थान) उसकी ईमानदारी सबको पसंद है। (गुण) गंगा एक पवित्र नदी है। (स्थान/वस्तु का नाम) ✻ ✻ ✻ 2. संज्ञा के भेद (प्रकार) — माइंड मैप संज्ञा मुख्यतः पाँच प्रकार की होती है। नीचे दिया गया माइंड मैप इसे ...

ram-navmi-shakti-pooja

Mundakopanishad- education- Vedangas- Jyotishamanayanam Chakshu'- Panchang- Sanatani- Dharma- Vaar- yogas- months

  ‘ द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति पराचैवापरा च। ‘ By saying this in Mundakopanishad, two types of education have been described – Para and Apara. Knowledge of Vedas and Vedangas is obtained in Apara Vidya. Throwing light on the six Vedangas (Shiksha, Kalpa, Vyakaran, Nirukta, Chhanda and Jyotish) in 'Paniniya Shiksha', Panini says that- षिक्षा कल्पो व्याकरणं , निरुक्तः छन्दसोचमः। ज्योतिशामनयनं चैव , वेदाड़्गानि शडैव तु। To know the Vedas, first of all it is necessary to know these Vedangas. In these Vedangas too, Jyotish has been described as the eye of Vedapurush by saying 'Jyotishamanayanam Chakshu'. Whenever we have to get the knowledge of Shubhashubh to perform Yagyadi Karma, then we take the support of Jyotish Shastra only. Which is known as Panchang. तिथिर्वारष्च नक्षत्र योगः करणमेव च। एतेशां यत्र विज्ञानं पंचांग तन्निगद्यते।। That is, the book which sheds special light on Tithi, Vaar, Nakshatra, Yoga an...